Advertisements
Advertisements

।।श्रीकृष्ण गर्भ स्तुति।।

Advertisements
https://bashisthaonline.in
Advertisements

ब्रह्मवैवर्तपुराण से संकलित स्तुति

देवा ऊचुः

जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च।

ज्योतिःस्वरूपो ह्यनघः सगुणो निर्गुणो महान्।।

भक्तानुरोधात् साकारो निराकारो निरंकुशः।

स्वेच्छामयश्च सर्वेशः सर्वः सर्वगुणाश्रयः।।

सुखदो दुःखदो दुर्गो दुर्जनान्तक एव च।

निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः।।

निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः।

आत्मारामः पूर्णकामो निर्दोषो नित्य एव च।।

सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः।

वेदहेतुश्च वेदाश्च वेदाङ्गो वेदविद् विभुः।।

इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः।

हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च।।

द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत्।

दृढां भक्तिं हरेर्दास्यं लभते वाञ्छितं फलम्।।

(श्रीकृष्णजन्मखण्ड 7 । 55-61)

श्रीमद्भागवतपुराण से संकलित स्तुति

सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये ।

सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ।।

एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्चविधः षडात्मा ।

सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः ।।

त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च ।

त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये ।।

बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य ।

सत्त्वोपपन्नानि सुखावहानि सतामभद्रा णि मुहुः खलानाम् ।।

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनावेशितचेतसैके ।

त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ।।

स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवार्णवं भीममदभ्रसौहृदाः ।

भवत्पदाम्भोरुहनावमत्र ते निधाय याताः सदनुग्रहो भवान् ।।

येऽन्येऽरविन्दाक्ष विमुक्तमानिनस् त्वय्यस्तभावादविशुद्धबुद्धयः ।

आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ।।

तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।

त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ।।

सत्त्वं विशुद्धं श्रयते भवान्स्थितौ शरीरिणां श्रेयौपायनं वपुः ।

वेदक्रियायोगतपःसमाधिभिस् तवार्हणं येन जनः समीहते ।।

सत्त्वं न चेद्धातरिदं निजं भवेद् विज्ञानमज्ञानभिदापमार्जनम् ।

गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ।।

न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः ।

मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ।।

शृण्वन्गृणन्संस्मरयंश्च चिन्तयन् नामानि रूपाणि च मङ्गलानि ते ।

क्रियासु यस्त्वच्चरणारविन्दयोर् आविष्टचेता न भवाय कल्पते ।।

दिष्ट्या हरेऽस्या भवतः पदो भुवो भारोऽपनीतस्तव जन्मनेशितुः ।

See also  नए वाटर ट्रीटमेंट प्लांट पर सवाल, निरीक्षण में सामने आई कई कमियां

दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर् द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ।।

न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे ।

भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि ।।

मत्स्याश्वकच्छपनृसिंहवराहहंस राजन्यविप्रविबुधेषु कृतावतारः ।

त्वं पासि नस्त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ।।

दिष्ट्याम्ब ते कुक्षिगतः परः पुमान् अंशेन साक्षाद्भगवान्भवाय नः ।

माभूद्भयं भोजपतेर्मुमूर्षोर् गोप्ता यदूनां भविता तवात्मजः ।।

Advertisements

Thanks for your Feedback!

You may have missed